|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.63. अध्यायः 063
Mahabharata - Ashvamedhika Parva - Chapter Topics
युधिष्ठिरेण व्यासाज्ञया भीमादिभिः सहालोच्य यज्ञार्थं धनाहरणाय सहभ्रात्रादिभिर्हिमवत्पार्श्वप्रति प्रस्थानम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना।
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह॥ 14-63-1(94253)
रत्नं च यन्मरुत्तेनि निहितं वसुधातले।
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम॥ 14-63-2(94254)
वैशम्पायन उवाच। 14-63-3x(7914)
श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः।
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्॥ 14-63-3(94255)
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि।
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना॥ 14-63-4(94256)
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता।
तपोवृद्धेनि महता सुहृदां भूतिमिच्छता॥ 14-63-5(94257)
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा।
भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता॥ 14-63-6(94258)
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः।
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्॥ 14-63-7(94259)
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः।
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः॥ 14-63-8(94260)
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः।
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि।
तदानयामहे सर्वे कतं वा भीम मन्यसे॥ 14-63-9(94261)
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह।
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्॥ 14-63-10(94262)
रोचते मे महाबाहो यदिदं भाषितं त्वया।
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति॥ 14-63-11(94263)
तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो।
कृतमेव महाराज भवेदिति मतिर्मम॥ 14-63-12(94264)
ते वयं प्रणिपातेन गिरीशस्य महात्मनः।
तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम्॥ 14-63-13(94265)
`तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम्।
अनादिनिधनं शंभुं नमस्यामि महेश्वरम्॥' 14-63-14(94266)
लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान्।
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः॥ 14-63-15(94267)
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः।
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे॥ 14-63-16(94268)
`स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः।
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः॥ 14-63-17(94269)
वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत्।
रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम्॥ 14-63-18(94270)
वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति।
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन॥ 14-63-19(94271)
अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये।
जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि।
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः॥ 14-63-20(94272)
तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः।
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः॥ 14-63-21(94273)
कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत्।
द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्॥ 14-63-22(94274)
तस्यैव च प्रसादेव निहतास्तव शत्रवः।
अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति।' 14-63-23(94275)
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत।
प्रीतो धर्मात्मजो राजा बभूवातीव भारत।
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः॥ 14-63-24(94276)
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्।
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे॥ 14-63-25(94277)
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च।
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्॥ 14-63-26(94278)
मोदकैः पायसेनाथ मांसापूपैस्तथैव च।
आशास्य च महात्मानं प्रययुर्मुदिता भृशम्॥ 14-63-27(94279)
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ।
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते॥ 14-63-28(94280)
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च।
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः॥ 14-63-29(94281)
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्।
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्॥ 14-63-30(94282)
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्।
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः।
`प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः' ॥ 14-63-31(94283)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिषष्टितमोऽध्यायः॥ 63 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|